Bab
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 17
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४.१७॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 18
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४.१८॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 19
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४.१९॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 20
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥४.२०॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 21
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४.२१॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 22
यदृच्छा लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४.२२॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 23
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४.२३॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 24
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४.२४॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 25
दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४.२५॥