Bab

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 17

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४.१७॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 18

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४.१८॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 19

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४.१९॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 20

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥४.२०॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 21

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४.२१॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 22

यदृच्छा लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४.२२॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 23

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४.२३॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 24

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४.२४॥

BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 25

दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४.२५॥