Sloka 18

१८. 18.

कामार्थौ लिप्समानस्तु धर्म्ममेवादितश्चरेत् ।

न हि धर्म्मादपेत्यार्थः कामो वापि कदाचन ॥१८॥

kāmārthau lipsamānastu dharmmamevāditaścaret,

na hi dharmmādapetyārthaḥ kāmo vāpi kadācana.

 

Mencari kāma dan artha harus dimulai dengan mengejar dharma. Jika mengabaikan dharma tidak ada artha maupun kāma.

 

Yan paramārthanya, yan arthakāma sādhyan, dharma juga lĕkasakĕna rumuhun, niyata katĕmwaning arthakāma mĕne tan paramārtha wi katemwaning arthakāma dening anasar sakeng dharma.

 

Pada hakikatnya, bila artha dan kama yang ingin digapai, hendaknya dharma yang dilakukan lebih dahulu. Tidak perlu ragu, artha dan kama itu pasti akan didapatkan. Artha dan kama itu bila diperoleh menyimpang dari dharma maka akan tidak berguna.

 

There are no reviews for this eBook.

0
0 out of 5 (0 User reviews )

Add a Review

Your Rating *

Sloka Lainnya

Sloka 29

मनोनुकूलाः प्रमदा रूपवत्यः स्वलंकृताः । वासः प्रासादपृष्ठे च भवन्ति शुभकर्म्मणाम् ॥२९॥

Sloka 30

निपानमिव मण्डूकाः सरः पूर्ण्णमिवाण्डजाः । शुभकर्म्मानमायान्ति सहायाश्च धनानि च ॥३॰॥

Sloka 31

अर्ज्जयेज्ज्ञानमर्थाश्च विद्वानमरवत् स्थितः। केशेष्विव गृहितः सन् मृत्युना धर्म्ममाचरेत्॥३१॥

Sloka 32

मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रुच्येत किमुताकृत्यकारिता ॥३२॥

Sloka 33

युवैव धर्म्ममन्विच्छेद् युवा वित्तं युवा श्रुतम्। तिर्य्यग्भवति वै दर्भ उत्पतन् न च विद्ध्यति॥३३॥

Sloka 34

पूर्व्वे वयसि यः शान्तः स शान्त इति मे मतिः। धातुषु क्षीयमाणेषु शमः कस्य न विद्यते॥३४॥

Sloka 35

युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा। मृत्योरुत्सङ्गमारुह्य स्थविरः किमपेक्षते॥३५॥

Sloka 36

पुरा शरीरमन्तको भिनत्ति रोगसारथिः। प्रसह्य जिवितक्षये शुभं महत् समाहरेत्॥३६॥

Sloka 37

युवैव धर्म्मशीलः स्यादनित्यं खलु जीवितम् । को हि जानाति कस्याद्य मृत्युसेना पतिष्यति ॥३७॥

Sloka 38

आ धूमाग्रान्निवर्त्तन्ते ज्ञातयः सह बान्धवैः। येन तैः सह गन्तव्यं तत् कर्म्म सुकृतं कुरु॥३८॥