Bab
BHAGAWADGITA DIGITAL
Pustaka Suci Bhagavadgītā dibangun dari 700 untaian sloka yang membentuk delapan belas bab sebagai satu kesatuan pustaka yang utuh. Apabila direkonstuksi, kedelapanbelas bab tersebut terdiri dari tiga bagian.
BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 1
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १.१॥
BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 2
सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १.२॥
BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १.३॥
BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १.४॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 1
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २.१॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 2
श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२.२॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 3
क्लैब्यं मा स्मगमः पार्थ नैतत्त्वैय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२.३॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 4
अर्जुन उवाच कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२.४॥