Bab

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 63

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८.६३॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 64

सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८.६४॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 65

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८.६५॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८.६६॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 67

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८.६७॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 68

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८.६८॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 69

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८.६९॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 71

श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८.७१॥