Bab
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 54
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८.५४॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 55
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८.५५॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 56
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८.५६॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 57
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८.५७॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 58
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८.५८॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 59
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां वियोक्ष्यति ॥१८.५९॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 60
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८.६०॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 61
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८.६१॥
BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 62
तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८.६२॥