Bab

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 18

ज्ञानं ग़्येयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८.१८॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 19

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥१८.१९॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 20

सर्वेभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८.२०॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 21

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८.२१॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 22

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८.२२॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 23

नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८.२३॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 24

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८.२४॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 25

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८.२५॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 26

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यशिद्ध्योनिर्विकारः कर्ता सात्त्विक उच्यते ॥१८.२६॥