Bab

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 9

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८.९॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 10

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८.१०॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 11

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८.११॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 12

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥१८.१२॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 13

पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८.१३॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 14

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८.१४॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 15

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८.१५॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 16

तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८.१६॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 17

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८.१७॥