Bab

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १.५॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १.६॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १.७॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १.८॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १.९॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १.१०॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 11

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १.११॥