Bab
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 5
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२.५॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 6
न चैतद्विद्मः कतरन्नोगरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 7
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२.७॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 8
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२ .८॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 9
सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२.९॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 10
तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२.१०॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 11
श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२.११॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥२.१२॥
BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२.१३॥