Bab

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२.२३॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्गतः स्थाणुरचलोऽयं सनातनः ॥२.२४॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२.२५॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२.२६॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२.२७॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२.२८॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 29

आश्चर्यवत्पश्यति कशिचिदेनमाश्चर्यवद्वदति तथैव चान्यः । आस्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२.२९॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२.३०॥

BAB II - Ajaran Yoga Tentang Sāṅkhya | Sloka 31

स्वधर्ममपि चावेक्ष्य नविकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२.३१॥