Bab

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 30

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १.३०॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 31

निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १.३१॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १.३२॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 33

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १.३३॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १.३४॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १.३५॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 36

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १.३६॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १.३७॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 38

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १.३८॥