Bab

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 12

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १.१२॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १.१३॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १.१४॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १.१५॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १.१६॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 17

काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १.१७॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 18

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १.१८॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १.१९॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १.२०॥