Bab

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 21

हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १.२१॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 22

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १.२२॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १.२३॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 24

सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १.२४॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १.२५॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 26

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १.२६॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 27

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १.२७॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 28

कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ १.२८॥

BAB I - Ajaran Yoga Tentang Kesedihan Arjuna | Sloka 29

सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १.२९॥