Bab

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४.२६॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 27

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४.२७॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 1

अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८.१॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 2

श्रीभगवानुवाच काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८.२॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 3

त्याज्यं दोषवदित्येके कर्मप्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८.३॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 4

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥१८.४॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 5

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८.५॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 6

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८.६॥

BAB XVIII - Ajaran Yoga Tentang Ketidakterikatan untuk Mencapai Moksa | Sloka 7

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८.७॥