Bab

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 33

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३.३३॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 34

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३.३४॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 1

श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१४.१॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 2

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥१४.२॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 3

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥१४.३॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 4

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्ममहद्योनिरहं बीजप्रदः पिता ॥१४.४॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 5

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥१४.५॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 6

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४.६॥

BAB XIV - Ajaran Yoga Tentang Tri Guṇa dan Bagian-Bagiannya | Sloka 7

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४.७॥