Bab
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 15
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३.१५॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 16
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥१३.१६॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 17
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३.१७॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 18
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३.१८॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 19
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धिप्रकृतिसम्भवान् ॥१३.१९॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 20
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३.२०॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 21
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३.२१॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 22
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३.२२॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 23
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३.२३॥