Bab

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 17

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२.१७॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 18

समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२.१८॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 19

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२.१९॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 20

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियः ॥१२.२०॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 1

श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३.१॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 2

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३.२॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 3

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३.३॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 4

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३.४॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 5

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३.५॥