Bab
BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 27
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७.२७॥
BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 28
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७.२८॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 1
अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२.१॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 2
श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२.२॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 3
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२.३॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 4
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२.४॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 5
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२.५॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 6
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२.६॥
BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 7
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२.७॥