Bab

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 24

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६.२४॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 1

अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७.१॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 2

श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 3

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 4

यजन्ते सात्त्विका देवान्यक्षरक्ष्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 5

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥१७.५॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 6

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७.६॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 7

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७.७॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 8

आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७.८॥