Bab

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 15

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६.१५॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 16

अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६.१६॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 17

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६.१७॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 18

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६.१८॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 19

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६.१९॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 20

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६.२०॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 21

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६.२१॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 22

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६.२२॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 23

यः शास्त्रविधिमुत्षृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६.२३॥