Bab

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 6

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६.६॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 7

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६.७॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 8

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥१६.८॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 9

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रबहवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६.९॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 10

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६.१०॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 11

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥१६.११॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 12

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६.१२॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 13

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६.१३॥

BAB XVI - Ajaran Yoga Tentang Surasampad Dan Asurasampad | Sloka 14

असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६.१४॥