Bab

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 9

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७.९॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 10

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७.१०॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 11

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७.११॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 12

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७.१२॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 13

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७.१३॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 14

देवद्विजगुरुप्राज्ञपूजनं शाचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७.१४॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 15

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७.१५॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 16

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७.१६॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 17

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७.१७॥