Bab

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 8

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२.८॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 9

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥१२.९॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 10

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्दिमवाप्स्यसि ॥१२.१०॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 11

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२.११॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 12

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२.१२॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 13

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥१२.१३॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 14

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२.१४॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 15

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२.१५॥

BAB XII - Ajaran Yoga Tentang Bhakti | Sloka 16

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२.१६॥