Bab

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 18

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७.१८॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 19

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७.१९॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 20

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७.२०॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 21

यत्तुप्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७.२१॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७.२२॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 23

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७.२३॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 24

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७.२४॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 25

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७.२५॥

BAB XVII - Ajaran Yoga Tentang Tiga Jenis Kepercayaan | Sloka 26

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७.२६॥