Bab
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 6
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३.६॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 7
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३.७॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 8
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३.८॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 9
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्तोपपत्तिषु ॥१३.९॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 10
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३.१०॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 11
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३.११॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 12
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३.१२॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 13
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३.१३॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 14
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३.१४॥