Bab

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 24

ध्यानेनात्मनि पश्यन्ति केचिदात्मनमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥१३.२४॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 25

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३.२५॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 26

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३.२६॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 27

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३.२७॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 28

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३.२८॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 29

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३.२९॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 30

यदा भुतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥१३.३०॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 31

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३.३१॥

BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 32

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३.३२॥