Bab

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 54

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥११.५४॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 55

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११.५५॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 1

श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५.१॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५.२॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 3

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५.३॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 4

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५.४॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 5

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५.५॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 6

न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५.६॥

BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 7

ममैवांशो जीवलोके जीवभूतः सनातनः । मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५.७॥