Bab

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 26

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११.२६॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 27

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११.२७॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 28

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्तिवक्त्राण्यभिविज्वलन्ति ॥११.२८॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 29

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥११.२९॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 30

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥११.३०॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 31

आख्या हि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥११.३१॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 32

श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११.३२॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 33

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥११.३३॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 34

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥११.३४॥