Bab
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 35
सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥११.३५॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 36
अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुराज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥११.३६॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 37
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥११.३७॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 38
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥११.३८॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥११.३९॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥११.४०॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 41
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥११.४१॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 42
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥११.४२॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 43
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥११.४३॥