Bab
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 17
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥११.१७॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 18
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥११.१८॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 19
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११.१९॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥११.२०॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 22
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११.२२॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 23
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११.२३॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 24
नभः स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥११.२४॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 25
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥११.२५॥