Bab

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 44

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥११.४४॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 45

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ॥११.४५॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 46

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥११.४६॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 47

श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११.४७॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 48

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११.४८॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 49

मा ते व्यथा मा च विमूढभावो दृष्त्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥११.४९॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 50

सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥११.५०॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 52

श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११.५२॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 53

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवम्विधो द्रष्टुं दृष्टवानसि मां यथा ॥११.५३॥