Bab
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 8
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५.८॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 9
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५.९॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 10
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५.१०॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५.११॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 12
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५.१२॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 13
गामाविष्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५.१३॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 14
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तःपचाम्यन्नं चतुर्विधम् ॥१५.१४॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 15
सर्वस्य चाहं हृदिसन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५.१५॥
BAB XV - Ajaran Yoga Tentang Kepribadian Utama | Sloka 16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५.१६॥