Bab

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 8

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११.८॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 9

सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११.९॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 10

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११.१०॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 11

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११.११॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 12

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्यमहात्मनः ॥११.१२॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 13

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११.१३॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 14

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११.१४॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 15

अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥११.१५॥

BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 16

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर वीश्वरूप ॥११.१६॥