Bab
Sloka 516
वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः॥५१६॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 1
अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११.१॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 2
२.2 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११.२॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११.३॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११.४॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 5
श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११.५॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 6
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११.६॥
BAB XI - Ajaran Yoga Tentang Wujud Semesta Tuhan | Sloka 7
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥११.७॥