Bab
Sloka 497
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्। चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्त्तते॥४९७॥
Sloka 502
सुखं च दुःखं च भवभवौ च लाभालाभौ मरणं जीवितं च। पर्य्यायतः सर्व्व एवाविशन्ति तस्माद्धीरो नैव तप्येन्न हृष्येत्॥५॰२॥
Sloka 504
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्व्वं परिहारो न विद्यते॥५॰ ४॥