Bab

Sloka 497

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्। चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्त्तते॥४९७॥

Sloka 498

धनं वा पुरुषो राजन् पुरुषं वा पुनर्धनम्। अवश्यं प्रजहात्येव तद्विद्वान् नानुशंसयेत्॥४९८॥

Sloka 499

पुरसतादेव ते बुद्धिरियं कार्य्या विजानता । अनित्यं सर्व्वमेवेदमहं च मम चास्ति यत्॥४९९॥

Sloka 500

अनित्यत्वे कृतमतिर्म्लानमाल्येन शोचति। नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति॥५॰॰॥

Sloka 501

स्वयमुत्पाद्यते वह्निः परीतस्तेन वह्निना । दह्यमानः परीतापं भजते न स पण्डितः॥५॰१॥

Sloka 502

सुखं च दुःखं च भवभवौ च लाभालाभौ मरणं जीवितं च। पर्य्यायतः सर्व्व एवाविशन्ति तस्माद्धीरो नैव तप्येन्न हृष्येत्॥५॰२॥

Sloka 503

सुखमापतितं सेवन् दुःखमापतितं भज। कालं प्राप्तमुपासीत सस्यानामिव कर्षकः॥५॰ ३॥

Sloka 504

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्व्वं परिहारो न विद्यते॥५॰ ४॥

Sloka 505

सुखस्यानन्तरं दुःखंदुःखस्यानन्तरं सुखम्। पर्य्यायेणोपवर्तन्ते नरं नेमिमरा इव॥५॰ ५॥