Bab

Sloka 487

यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम्। स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते महत् सुखम्॥४८७॥

Sloka 488

स्वजने न च ते चिन्ता कर्त्तव्या मोक्षबुद्धिना। इमे मया विना तात भविष्यन्ति कथं न्विति॥४८८॥

Sloka 489

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्द्धते। सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति॥४८९॥

Sloka 490

यथा काष्ठं च काष्ठं समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद्भूतसमगमः ॥४९०॥

Sloka 491

एवं पुत्राश्च ज्ञातयः सुहृदस्तथा। अतिस्नेहो न कर्त्तव्यो विप्रयोगो ध्रुवो हि तैः॥४९१॥

Sloka 492

मातापितृसहस्राणि पुत्रदारशतानि च। युगे युगे व्यतीतानि कस्य ते कस्य वा वयम्॥४९२॥

Sloka 493

नायमत्यन्तसंवासः कदाचित् केनचित् सह। अपि स्वेन शरीरेण किमुतान्येण केनचित्॥४९३॥

Sloka 494

आदर्श्शनादापतिताः पुनश्चादर्श्शनं गताः। न ते तव न तेषां त्वं का तत्र परिदेवना ॥४९४॥​

Sloka 495

नष्टे धने वा दारेषु पुत्रे पितरि मातरि। अहो कस्तमिति ध्यात्वा दुःखस्यापचितिं चरेत्॥४९५॥