Bab

Sloka 459

यथैव शृङ्गं गोः काले वर्द्धमानस्य वर्द्धते। तथैव तृष्णा वित्तेन वर्द्धमानेन वर्द्धते॥४५९॥

Sloka 460

अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम्। तमेव सर्व्वपापेभ्यो लज्जा मतेव रक्षति॥४५०॥

Sloka 461

तृष्णा लोकत्रयस्यास्य निर्व्वैरपरिमन्थिनी। यैस्तु निर्मोकवत् त्यक्ता को दरिद्रः क इश्वरः॥४६१॥

Sloka 462

या दुस्त्यजा दुर्म्मतिभिर्य्या न जीर्य्यति जीर्य्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥४६२॥

Sloka 463

यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥४६३॥

Sloka 464

एको लोभो महाग्राहो लोभात् पापं प्रवर्त्तते। ततः, पापादधर्म्माप्तिस्ततो दुःखं प्रवर्तते॥४६४॥

Sloka 465

पापानां विद्ध्यधिष्ठानं लोभ एव नरोत्तम। लुब्धाः पापं प्रकुर्व्वन्ति सुविद्वांसोऽपि मानवाः॥४६५॥

Sloka 466

असन्तोषोऽसुखायैव​ लोभादिन्द्रियविभ्रमः। ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्ज्जिता॥४६६॥

Sloka 467

अर्थानामर्ज्जने दुःखमर्ज्जितानां च रक्षणे। नाशे दुःखं क्षये दुःखं धिगर्थान् दुःखवर्द्धनान्॥४६७॥