स्वभावश्चैव नारीणां नराणामिह दूषणम्। इत्थं वै न प्रमाद्यन्ति प्रमदासु विपश्चितः॥४४१॥
येषु येषु प्रदेश्शेसु कायोऽत्यन्तजुगुप्सितः। तेषु-तेषु जनः सक्तो वैरग्यं केन यास्यति॥४४२॥
को हि नाम मनुष्येषु जानन्नपि विचक्षणः। हरिनीपदमात्रेण चर्म्मणा न खलीकृतः॥४४३॥
प्रस्वेदमलदिग्धेन वहता मूत्रशोणितम्। व्रणेन विवृतेनैव सर्व्वमन्धीकृतं जगत्॥४४४॥
कूलानि नास्य पात्यन्ते न कथमपि खन्यते। खनकैव क्षयं याति बलेन च धनेन च॥४४५॥
यान्येव मलवाहीनि पूतिच्छिद्राणि योषिताम्। तान्येव खलु काम्यानि अहो पुंसां विडम्बना॥४४६॥
योषितां न कथा श्रव्या न निरीक्ष्या निरम्बराः। कदाचिद्दर्श्शनत् तासां दुर्ब्बलानाविशेद्रजः॥४४७॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्। बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति॥४४८॥
कोटराग्निर्य्यथाशेषां समूलं पादपं दहेत्। धर्म्मार्थं च तथा लोके रागद्वेषो विनाशयेत्॥४४९॥