Bab

Sloka 423

द्रव्येषु समातितेषु ये गुणास्तान् न चिन्तयेत्। ताननाद्रियमाणस्य स्नेहस्तस्य प्रणश्यति॥४२३॥

Sloka 424

प्रीतेः शोकः प्रभवति वियोगार्त्तस्य देहिनः। यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति॥४२४॥

Sloka 425

निद्रा सर्व्वात्मना त्याज्या स्वप्नदोषानवेक्ष्य वै। स्वप्ने हि रजसा देही तमसा वाभिभूयते॥४२५॥

Sloka 426

नक्तंचर्य्यां दिवास्वप्नमालस्यं मैथुनं मदम्। दैन्यं विषययोगं तु श्रेयोर्ऽथी परिवर्ज्जयेत्॥४२६॥

Sloka 427

विषयाणां च दौरात्म्यादिन्दियाणां च चापलात्। मनसश्चानवस्थानात् सर्व्वकृच्छ्रेषु तिष्ठति॥४२७॥

Sloka 428

विषयान् प्रत्यवसितुं न जातु लभते धृतिम्। ष्येनच्छायामनुपतन् कपिञ्जल इवातपे॥४२८॥

Sloka 429

न जातु कामः काम्यानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एव विवर्द्धते॥४२९॥

Sloka 430

न स्त्रीभ्यः किन्चिदन्यद्वै पापीयो भुवि विद्यते। स्त्रीयो मूलमनर्थानां मनसापि च चिन्तिताः॥४३॰॥

Sloka 431

स्त्रीकृतो ग्रामनिगमः स्त्रीकृतः क्रयविक्रयः। स्त्रीयो मूलमनर्थानां तस्मान्नैताः परिष्वजेत्॥४३१॥