Bab
Sloka 432
अन्तकः पवनो मृत्युः पातालम् वडवामुखम्। क्षुरधारा निषं सर्प्पो वह्निरित्येकतः स्त्रियः॥४३२॥
Sloka 435
अनर्थित्वान्मनुष्याणां भयात् परिभवात् तथा। मर्य्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु॥४३५॥
Sloka 436
उशना वेद यच्छास्त्रम् यच्च वेद वृहस्पतिः। उभे ते न विशिष्येते स्त्रीबुद्धिस्तु विशिष्यते॥४३६॥
Sloka 438
यस्य जिह्वासहस्रं स्याज्जीवेच्च शरदः शतम्। अनन्यकर्म्मा स्त्रीदोषान् नैवोक्त्वा निधनं व्रजेत्॥४३८॥
Sloka 440
स्त्री नाम माया निकृतिः क्रोधमात्सर्य्यविग्रहा। दूरात् त्यजेदनार्य्यां तां ज्वलितामेध्यवद्बुधः॥४४॰॥