कामो बन्धनमेवैकं नान्यदस्तीह बन्धनं। काम बन्धनमुक्तो हि ब्रह्म भूयायकल्पते॥४५॰॥
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति। यश्च तप्तो न तपति स भृशं शमभाजनम्॥४५१॥
अतर्थ्येनोच्यामानस्य कः कोपो यन्न तत्तथा। तथ्येनापि हि कः कोपो यदनुक्तेऽपि तत्तथा॥४५२॥
रागाभिभूतः पुरुषः कामेन परिगम्यते। इच्छा सञ्जायते चास्य ततस्तृष्णा प्रवर्तते॥४५३॥
तृष्णा हि सर्व्वपापिष्ठा नित्योद्वेगकरी मता। अधर्म्मबहुला चैव घोरा पापानुबन्धिनी॥४५४॥
आसन्नान् पुरतो भोगान् दर्श्शयित्वा पुनःपुनः। छागो हरितमुष्ट्येव दूरं नितोऽस्मि तृष्णया॥४५५॥
यौवनं जरया ग्रस्तमारोग्यं व्याधिभिर्हृतम्। जीवितं मृत्युरभ्येति तृष्णैका निरुपद्रवा॥४५६॥
जीर्य्यन्ति जीर्य्यतः केशा दन्ता जिर्य्यन्ति जीर्य्यतः। जिविताशा धनाशा च जीर्य्यतोऽपि न जीर्य्यति॥४५७॥
न तल्लोके द्रव्यमस्ति यत् तृष्णामभिपूरयेत्। समुद्रकल्पः पुरुषो न कथञ्चन पूर्यते॥४५८॥