Bab

Sloka 414

क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्ज्जनात्। लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्श्शनात्॥४१४॥

Sloka 415

आयत्या वर्ज्जयेदाशामर्थं सङ्गविवर्ज्जनात्। अनित्यत्वेन च स्नेहं दुःखं योगेन पण्डितः॥४१५॥

Sloka 416

कारुण्येनात्मनो मोहं तृष्णां च परितोषतः। उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत्॥४१६॥

Sloka 417

मानं हित्वा प्रियो नित्यं कामं हित्वा सुखं भवेत्। क्रोधं हित्वा निराबाधस्तृष्णां जित्वा न तप्यते॥४१७॥

Sloka 418

अवश्यमिन्द्रियैस्तात वर्त्तितव्यं स्वगोचरे। चण्डरागस्तु यस्तत्र तं बुधः परिवर्ज्जयेत्॥४१८॥

Sloka 419

अप्रार्थनमसंस्पर्श्शं मसन्दर्श्शनमेव च। पुरुषस्येह नियमो भवेद्रागप्रहाणये॥४१९॥

Sloka 420

संकल्पाज्जायते रागः सेव्यमानो विवर्द्धते। अवद्यदर्श्शनाद् व्येति तत्त्वज्ञानाच्च धीमताम्॥४२॰॥

Sloka 421

सर्व्वत्र सम्पदस्तस्य सन्तुष्टम् यस्य मानसम्। उपानद्गूढपादस्य ननु चर्म्मस्तृतेव भूः॥४२१॥

Sloka 422

पृथिव्यां यद् व्रीहियवं हिरण्यं पषवः स्त्रियः। नालमेकस्य तद्वित्तमिति मत्वा शमं व्रजेत्॥४२२॥