न तत् परस्य सन्दध्यात् प्रतिकूलं यदात्मनः । एष संक्षेपतो धर्म्मः कामादन्यत् प्रवर्तते ॥४७॥
ये तु शिष्टाः सुनियताः सत्यार्ज्जवपरायनः । धर्म्यं पन्थानमारूढास्तेषां पृत्तं समाचर ॥४८॥
सर्व्वतो भ्राम्यमाणस्य धर्म्मस्य रथचक्रवत् । वेश्यासुतस्येव पितुर्निश्चयो नोपलभ्यते ॥४९॥
श्रुयतां धर्म्मसर्व्वस्वं श्रुत्वा चैवोपधार्य्यताम् । आत्मनः प्रतिकूलानि न परेसां समाचर ॥५०॥
पुलका इव धान्येषु पुत्तिका इव पक्षिषु । तादृशास्ते मनुष्येषु येषां धर्म्मो न कारणम् ॥५१॥
म्रियन्ते जन्मनोऽर्थाय जायन्ते मरनाय च । न धर्माथं न कामार्थं तृणानिव पृथग्जनाः ॥५२॥
ये तु धर्म्म मसूयन्ते बुद्धिमोहान्वित जनाः । अपथा गच्छतां तेषामणुयातापि पीड्यते ॥५३॥
अधर्मरुचयो मन्दास्तिर्य्यग्गतिपरायणाः । कृच्छ्रां योनिमनुप्राप्य न विन्दन्ति सुखं जनाः ॥५४॥
धनस्य यस्य राजतो भयं न चास्ति चोरतः । मृतम् च यन्न मुञ्चति समर्ज्जयस्व तद्धनम् ॥५५॥