Bab

Sloka 162

तस्माद् वाक्कायचित्तैस्तु नाचरेदशुभं नरः । शुभाशुभं ह्याचरति तस्य तस्याश्नुते फलम् ॥१६२॥

Sloka 163

अद्रोहः सर्व्वभूतेषु कायेन मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधाः ॥१६३॥

Sloka 164

धर्म्मः सत्यं तथा वृत्तं बलं श्रीश्चैव पञ्चमः । निश्चयेन महाराज सदा नास्त्यत्र संषयः ॥१६४॥

Sloka 165

शीलेन​ हि त्रयो लोकाः शक्या जेतुम् न संशयः । न हि किञ्चिदसाध्यं वै लोके शीलेन निश्चितः ॥१६५॥

Sloka 166

शीलं प्रधानं पुरुषे तद्यष्येह प्रणश्यति । न तस्य जीवीतेनार्थो दुःशीलं किंप्रयोजनम् ॥१६६॥

Sloka 167

ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् । अपि शूद्रं तु धर्म्मज्ञं सद्वृत्तं चापि पूजयेत् ॥१६७॥

Sloka 168

वृत्तेन रक्ष्यते धर्म्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं शीलेन रक्ष्यते ॥१६८॥

Sloka 169

आत्मानमाख्यति कुली न यो नरः स्वशीलचारित्रकृतैः शुभोदयैः । प्रणष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वशीलतः ॥१६९॥

Sloka 170

सर्व्वे च वेदाः सह षड्भिरङ्गैः षाङ्ख्यं पुराणं च कुले च जन्म ।