Bab
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 1
श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७.१॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 2
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥७.२॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 3
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७.३॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 4
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७.४॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 5
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७.५॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७.६॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 7
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७.७॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७.८॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 9
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७.९॥