Bab
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 1
श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥६.१॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 2
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥६.२॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६.३॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारुढस्तदोच्यते ॥६.४॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६.५॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 6
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६.६॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 7
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६.७॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६.८॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६.९॥