Bab

Sloka 283

अक्रोधनश्च राजेन्द्र स्त्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥२८३॥

Sloka 284

अनुपोष्य त्रिरात्रेषु तिर्थान्यनधिगम्य च । अदत्त्वा कञ्चनं गाश्च दरिद्रो नाम जायते ॥२८४॥

Sloka 285

सदा दरिद्रैरपि हि शक्यं प्राप्तुं नराधिप । तीर्थभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥२८५॥