Bab
Sloka 116
नास्तिक्यं वेदनिन्दां च देवातानां च कुत्सनम् । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्ज्जयेत् ॥११६॥
Sloka 117
सन्दिग्धेऽपि परे लोके त्याज्यमेवशुभं बुधैः । यदि नस्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥११७॥
Sloka 118
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः । आगमांस्त्वनतिक्रम्य श्रद्धातव्यं विजानता ॥११८॥
Sloka 119
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् । सर्व्वत्र चानवस्थानमेतन्नाशानमात्मनः ॥११९॥
Sloka 120
नास्तिकं भिन्नमर्य्यादं कूले वतमिव स्थितम् । वामतः कुरु विश्रब्धं नरं रेणुमिवोद्धतम् ॥१२०॥
Sloka 121
ये नास्तिका निष्क्रियाश्च गु गुरुशास्त्रातिलङ्घिनः । विहिंसका दुराचारास्ते भवन्ति गतायुषः ॥१२१॥