Bab

Sloka 142

जीवितं यः स्वयं हिच्छेत् कथं सोऽन्यान् प्रघातयेत् । यद्यदात्मनि हीच्छेत​ तत् परस्यापि चिन्तयेत् ॥१४२॥

Sloka 143

यस्यान्ते श्वापि चरनौ कुरुते मूर्ध्न्य शङ्कितः । स कायः परपीडनैर् धार्यत इति को नयः ॥१४३॥

Sloka 144

क्रिमयो भस्म विष्ठा वा निष्ठा यस्येदृशी भवेत् । कयोऽयं पलयं पिड्य यत्कथं परिपाल्यते ॥१४४॥

Sloka 145

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि न । फलं भूतहितर्थाय तत् पशोरिव चेष्टितम् ॥१४५॥

Sloka 146

एकं सूते मृगारिणी बहून् सूते वृकि सुतान् । अत्तारः प्रलयं यान्ति नाद्यमानाः कथञ्चन ॥१४६॥

Sloka 147

वधबन्धपरिक्लेशान् प्राणिनो न करोति यः । स सर्व्वस्य हितं प्रेप्सुः सुखमत्यन्तमश्नुते ॥१४७॥

Sloka 148

यच्चिन्तयति यद्याति रतिन् बध्नाति यत्र च । तथा चाप्नोत्ययत्नेन प्राणिनो न हिनस्ति यः ॥१४८॥

Sloka 149

रूपमव्यङ्गतामायुः पूर्ण्णं प्रज्ञां शौर्य्यं स्मृतिं । प्रप्तुकामैर्नरैर्हिंस वर्ज्जनीया कृतात्मभिः ॥१४९॥

Sloka 150

अभयं सर्व्वभूतेभ्यो यो ददाति दयापरः । अभयं तस्य भूतानि ददतीह न संशयः ॥१५०॥