Bab

Sloka 102

न शत्रवः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥१॰२॥

Sloka 103

अव्याधिजं कटुकं शीर्षरोगं यशोमुषं पापफलोदयं च । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥१॰३॥

Sloka 104

आत्मोपमस्तु भूतेषु यो भवेदिह पूरुषः । त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥१॰४॥

Sloka 105

जातवैरस्तु पूरुषो दुःखं स्वपिति सर्व्वदा । अनिर्वृतेन मनसा स सर्प्प इव वेश्मनि ॥१॰५॥

Sloka 106

आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च । अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ॥१॰६॥

Sloka 107

अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्व्विशिष्टः । अमानुसेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवविदुषह् प्रधानः ॥१॰७॥

Sloka 108

यत् क्रोधनो यजति यद्ददाति यद्वा तपस्तपति यज्जुहोति । वैवस्वतस्तद्धरत्यस्य सर्व्वं वृथा श्रमो भवति क्रोधनस्य ॥१०८॥

Sloka 109

नित्यं क्रोधात् तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् । विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥१०९॥

Sloka 110

क्रोधो वैवस्वतो मृत्युस्तृष्णा वैतरनी नदी । विद्या कामदुघा धेनुः सनोसो नन्दनं वनम् ॥११०॥